Dhanlakshmi Stotram धनलक्ष्मी स्तोत्रम् ॥धनलक्ष्मी स्तोत्रम्॥ ॥धनदा उवाच॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शंकरं करुणाकरम् ॥१॥ ॥देव्युवाच॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमंजसैव धनप्रदम् ॥२॥ ॥शिव उवाच॥ पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः। उचितं जगदम्बासि तव भूतानुकम्पया ॥३॥ स सीतं सानुजं रामं सांजनेयं सहानुगम्। प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥४॥ धनदं श्रद्धानानां सद्यः सुलभकारकम्। योगक्षेमकरं […]